जयघोष-वन्दन
धर्मस्य हि जयो भूयादधर्मस्य पराजय: ।
भूयात्प्राणीषु सद्भावो विश्वस्यास्य शिवं सदा ।।१।।
गवां वै मन्त्रमुर्त्तीणां पुनर्भूयाज्जयो जय: ।
कलङ्को गोवधोद्भूत: प्रभो राष्ट्रादपैतु न: ।।२।।
भूयाद्भारतमस्माकमखण्डं धर्ममण्डितम् ।
स्वामिनां करपात्राणां वर्द्धतां धर्मसंहति: ।।३।।
शम्भो हर – हरेत्युच्चैर्महादेवेति गर्जनम् ।
सद्धर्मवर्त्मपान्थानामस्माकं राजतां भुवि ।।४।।
शुभं भूयाद्धि विश्वस्य प्राणिन: संतु निर्भया: ।
धर्मवन्तश्च मोदन्तां ब्रह्मज्योति: समेधताम् ।।५।।
परमानन्दसमुद्रोल्लासनिवासैकपूर्णिमाज्योत्स्ने ।
श्रीमत्करपात्रचरणसरसीरूहपादुके वन्दे ।।६।।

संसृतिसागरनिपतल्लोकसमुद्धारकारणीभूते ।
श्रीमत्करपात्रचरणसरसीरूहपादुके वन्दे ।।७।।
नारायण महाविष्णो श्रीधरानन्त केशव ।
वासुदेव जगन्नाथ हृषीकेश नमो नमः ।।८।।
त्वय्यात्मनि जगन्नाथे मन्मनो रमतामिह ।
कदा ममेदृशं जन्म मानुषं सम्भविष्यति ।।९।।
निरञ्जनो निराख्यातो निर्विकल्पो नमो नमः ।
पूर्णानन्दो हरिर्मायारहितः पुरुषोत्तमः ।।१०।।
मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ।।११।।
चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जम् ।
नादविन्दुकलातीतं तस्मै श्रीगुरवे नमः ।।१२।।
वन्दे विज्ञाननिःस्यन्दां सच्चिदानन्दकन्दलीम् ।
शङ्कराचार्यवर्याणां वाक्सुधां रसशेवधीम् ।।१३।।
पूर्वाम्नायपुरीपीठचिदाकाशस्वयम्प्रभाः ।
गुरवो निश्चलानन्दा विजयन्ते सतां हृदि ।।१४।।
(सङ्कलित)
धर्मकी जय हो ! अधर्मका नाश हो !
प्राणियोंमें सद्भावना हो ! विश्वका कल्याण हो !
गोमाताकी जय हो ! गोहत्या बन्द हो !
भारत अखण्ड हो ! हर – हर महादेव !
सर्वभूतहृदय धर्मसम्राट् श्रीकरपात्रीजी महाराजकी जय हो !

— श्रीगोवर्द्धनमठ-पुरीपीठाधीश्वर-श्रीमज्जगद्गुरु-शंकराचार्य स्वामी श्रीनिश्चलानन्द सरस्वती द्वारा लिखित पुस्तक “पूज्य श्रीधर्मसम्राट के महत्त्वपूर्ण उपदेश” पृष्ठ संख्या ५ – ६